![](https://mysticpower.in/wp-content/uploads/2022/06/शिव-कृत-श्री-दुर्गा-स्तोत्रम्-768x461-1.jpg)
शिव कृत श्री दुर्गा स्तोत्रम्
डॉ.दीनदयाल मणि त्रिपाठी (प्रबंध सम्पादक )
रक्ष रक्ष महादेवि दुर्गे दुर्गतिनाशिनि । मां भक्तमनुरक्तं च शत्रुग्रस्तं कृपामयि ॥१॥
विष्णुमाये महाभागे नारायणि सनातनि । ब्रह्मस्वरूपे परमे नित्यानन्यस्वरूपिणी ॥ २॥
त्वं च ब्रह्मादिदेवानामम्बिके जगदम्बिके । त्वं साकारे च गुणतो निराकारे च निर्गुणात् ॥३॥
मायया पुरुषस्त्वं च मायया प्रकृतिः स्वयम् । तयोः परं ब्रह्म परं त्वं बिभर्षि सनातनि ॥४॥
वेदानां जननी त्वं च सावित्री च परात्परा। वैकुण्ठे च महालक्ष्मीः सर्वसम्पत्स्वरूपिणी ॥५॥
मर्त्यलक्ष्मीश्च क्षीरोदे कामिनी शेषशायिनः । स्वर्गेषु स्वर्गलक्ष्मीस्त्वं राजलक्ष्मीश्च भूतले ॥६॥
नागादिलक्ष्मी: पाताले गृहेषु गृहदेवता । सर्वसस्यस्वरूपा त्वं सर्वैश्वर्यविधायिनी ॥७॥
रागाधिष्ठातृदेवी त्वं ब्रह्मणश्च सरस्वती। प्राणानामधिदेवी त्वं कृष्णस्य परमात्मनः ॥८॥
गोलोके च स्वयं राधा श्रीकृष्णस्यैव वक्षसि । गोलोकाधिष्ठाता देवी वृन्दावनवने वने ॥ ९॥
श्रीरासमण्डले रम्या वृन्दावनविनोदिनी । शतशृङ्गाधिदेवी त्वं नाम्ना चित्रावलीति च ॥१०॥
दक्षकन्या कुत्र कल्पे कुत्रकल्पे च शैलजा। देवमाता दितिस्त्वं च सर्वाधारा वसुन्धरा ॥११॥
त्वमेव गङ्गा तुलसी त्वं च स्वाहा स्वधा सती । त्वदेशांशांशकलया सर्वदेवादियोषितः ॥ १२॥
स्त्रीरूपं चापि पुरुषं देवि त्वं च नपुंसकम् । वृक्षाणां वृक्षरूपा त्वं सृष्टौ चाङ्कुररूपिणी ॥१३॥
वह्नौ च दाहिका शक्तिर्जले शैत्यस्वरूपिणी । सूर्ये तेजस्वरूपा च प्रभारूपा च सन्ततम् ॥ १४॥
गन्धरूपा च भूमौ च आकाशे शब्दरूपिणी । शोभास्वरूपा चन्द्रे च पद्मसङ्घे च निश्चितम् ॥ १५॥
सृष्टौ सृष्टिस्वरूपा च पालने परिपालिका । महामारी च संहारे जले च जलरूपिणी ॥ १६॥
क्षुत् त्वं दया त्वं निद्रा त्वं तृष्णा त्वं बुद्धिरूपिणी । तुष्टिस्त्वं चपि पुष्टिस्त्वं श्रद्धा त्वं च क्षमा स्वयम् ॥ १७॥
शान्तिस्त्वं च स्वयं भ्रान्तिः कान्तिस्त्वं कीर्तिरेव च । लज्जा त्वं च तथा माया भुक्तिमुक्तिस्वरूपिणी ॥१८॥
सर्वशक्तिस्वरूपा त्वं सर्वसंपत्प्रदायिनी । वेदेऽनिर्वचनीया त्वं त्वां न जानाति कश्चन ॥ १९॥
सहस्रवक्त्रस्त्वां स्तोतुं न शक्तः सुरेश्वरि । वेदा: न शक्ताः को विद्वान् न च शक्ता सरस्वती ॥२०॥
स्वयं विधाता शक्तो न न च विष्णुः सनातनः । किं स्तीमि पञ्चवक्त्रेण रणवस्तो महेश्वरि । कृपां कुरु महामाये मम शत्रुक्षयं कुरु ॥ २१ ॥
"मिस्टिक पावर में प्रकाशित सभी लेख विषय विशेषज्ञों द्वारा लिखे जाते हैं। लेख में उल्लेखित तथ्यों व सूचनाओं का सम्पादन मिस्टिक पावर के अनुभवी एवं विशेषज्ञ सम्पादक मण्डल द्वारा किया जाता है। मिस्टिक पावर में प्रकाशित लेख पाठक को जानकारी देने तथा जागरूकता बढ़ाने के लिए तैयार किया जाता है। मिस्टिक पावर लेख में प्रदत्त जानकारी व सूचना को लेकर किसी तरह का दावा नहीं करता है और न ही जिम्मेदारी लेता है।"
:- लेखक के व्यक्तिगत विचार होते हैं जो कि सनातन धर्म के तथ्यों पर आधारित होते हैं। -:
![](https://mysticpower.in/wp-content/uploads/2023/02/DONATION.jpeg)
![](https://mysticpower.in/wp-content/uploads/2023/10/contact-us-.png)