श्रीसुदर्शन कवचम्

img25
  • धर्म-पथ
  • |
  • 31 October 2024
  • |
  • 0 Comments

श्री अनिल गोविन्द बोकील (नाथसंप्रदाय मे पूर्णाभिषिक्त और  तंत्र मार्ग मे काली कुल मे पूर्णाभिषिक्त के बाद साम्राज्याभिषिक्त।)- Mystic Power- दर्शनकवचम्!! प्रसीद भगवन् ब्रह्मन् सर्वमन्त्रज्ञ नारद । सौदर्शनं तु कवचं पवित्रं ब्रूहि तत्वतः ॥ १॥ नारदः — श्रुणुश्वेह द्विजश्रेष्ट पवित्रं परमाद्भुतम् । सौदर्शनं तु कवचं दृष्टाऽदृष्टार्थ साधकम् ॥ २॥ कवचस्यास्य ऋषिर्ब्रह्मा छन्दोनुष्टुप् तथा स्मृतम् । सुदर्शन महाविष्णुर्देवता सम्प्रचक्षते ॥ ३॥ ह्रां बीजं शक्ति रद्रोक्ता ह्रीं क्रों कीलकमिष्यते । शिरः सुदर्शनः पातु ललाटं चक्रनायकः ॥ ४॥ घ्राणं पातु महादैत्य रिपुरव्यात् दृशौ मम । शहस्रारः श‍ृतिं पातु कपोलं देववल्लभः ॥ ५॥ विश्वात्मा पातु मे वक्त्रं जिह्वां विद्यामयो हरिः । कण्ठं पातु महाज्वालः स्कंधौ दिव्यायुधेश्वरः ॥ ६॥ भुजौ मे पातु विजयी करौ कैटभनाशनः । षट्कोण संस्थितः पातु हृदयं धाम मामकम् ॥ ७॥ मध्यम् पातु महावीर्यः त्रिनेत्रो नाभिमण्डलम् । सर्वयुधमयः पातु कटिं श्रोणिम् महाध्युतिः ॥ ८॥ सोमसूर्याग्नि नयनः ऊरु पातु च ममकौ । गुह्यं पातु महामायः जानुनी तु जगत्पतिः ॥ ९॥ जङ्घे पातु ममाजस्रं अहिर्बुध्न्यः सुपूजितः । गुल्फौ पातु विशुद्धात्मा पादौ परपुरञ्जयः ॥ १०॥ सकलायुध सम्पूर्णः निखिलाङ्गं सुदर्शनः । य इदं कवचं दिव्यम् परमानंद दायिनम् ॥ ११॥ सौदर्शनमिदं यो वै सदा शुद्धः पठेन् नरः । तस्यार्थ सिद्धिर्विपुला करस्था भवति ध्रुवम् ॥ १२॥ कूष्माण्ड चण्ड भूताध्याः येच दुष्टाः ग्रहाः स्मृताः । लायन्तेऽनिशम् पीताः वर्मणोस्य प्रभावतः ॥ १३॥ कुष्टापस्मार गुल्माद्याः व्यादयः कर्महेतुकाः । नश्यन्त्येतन् मन्त्रितांबु पानात् सप्त दिनावधि ॥ १४॥ अनेन मन्त्रिताम्मृत्स्नां तुलसीमूलः संस्थिताम् । ललाटे तिलकं कृत्वा मोहयेत् त्रिजगन् नरः ॥ १५॥ इति श्रीभृगुसंहितोक्त श्रीसुदर्शन कवचम् सम्पूर्णम् ॥



0 Comments

Comments are not available.

Leave a Reply

Your email address will not be published. Required fields are marked *

Post Comment